________________
८५१
ऽध्यायः]
प्रायश्चित्तवर्णनम् । उच्छिो ब्राह्मणः स्पृष्ट्वा द्विजातिस्त्रीं रजस्वलाम् । . प्राजापत्येन संशुद्धयेच्चीर्णकृच्छण वा पुनः ।।२३२ वदन्ति कवयः केचिदेतदोषविशुद्धये । प्राणायामशतं चास्य पंचगव्यस्य भक्षणात् ।।२३३ उच्छिष्टो ब्राह्मणः स्पृष्टो ब्राह्मग्युदक्यया चरेत् । प्राजापत्यं च गायत्रीमयुतं नियतं सकृत् ।।२३४ क्षत्रिण्यादिभिरुच्छिष्यैः संस्पृष्टो व्रतमाचरेत् । अनुच्छिष्ट तत्त्पर्श स्नानकर्म यतः स्मृतम् ।।२३५ रजकादिकसंस्पर्श द्विजन्मोदस्ययोषितः । प्राजापत्यं चरेद्विप्रा अन्याश्चरेयुरंशतः ।।२३६ उदक्यां ब्राह्मणी गत्वा क्षत्रियो वैश्य एव च । त्रिरात्रोपोषितः प्राश्य गव्यमाज्यं शुचिर्भवेत् ।।२३७ क्षत्रिणीं चैव वैश्यां च जानन् गत्वा तु कामतः । चरेत्सान्तपनं विप्रस्तत्पापस्य विमोक्षकृत् ।।२३८ वैश्यां च क्षत्रियो गत्वा वैश्यश्च शूद्रिणीं तथा । प्राजापत्यं चरेतां ताविति प्राह पराशरः ।।२३६ उच्छिष्टा ब्राह्मणी स्पृष्ठा शुना वा वृषलेन वा । अशुद्धा वा भवेत्तावद्यावन्नस्यादुपोषणम् । शुद्धा भवति सा तावद्यावत्पश्यति शीतगुम् ।।२४० विप्रोष्य स्वजनी वेश्यां महिष्युष्टीमजां खरीम। प्राजापत्यं चरेद्गत्वा ह्मकैकस्य विशुद्धये ॥२४१