________________
वृहत्पराशरस्मृतिः। [अष्टमोसूत कान्नं द्विजो भुक्त्वा त्रिरात्रोपोषणाच्छुचिः। तोयपाने त्वसौ कुर्यात्पंचगव्यस्य चाशनम् ।।२२१ द्रोणाढकं तदध वा प्रस्थं प्रस्थार्धमेव वा। घृतमुच्छिटसंस्पृष्टं प्रोक्षणाच्छुचितामियात् ।।२२२ चरुपक शृतं पक्कं अन्नं काकाद्युपाहतम् । तमासस्थानसंत्यागात्यूतं हेमाम्बुसिंचनात् ।।२२३ केचिद्वदन्ति तज्ज्ञास्तु तस्याग्निनावचूडनम् । केचित्प्रणवयुक्तेन वारिणा प्रोक्षणं विदुः ।।२२४ केश-कीटकसंदुष्टं अन्नं मक्षिकयापि च । मृद्भस्मवारिणा तंत्र क्षेप्तव्यं शुद्धिकारणम् ।।२२५ उदक्या ब्राह्मणी स्पृष्टा क्षत्रिग्यापि हुंदक्यया । अर्ध कृच्छू चरेत्पूर्वा तदर्धमपरा चरेत ॥२२६ प्राजापत्यं विशःपत्या विटपत्नी पादमाचरेत! शूद्रास्पृटा चरेत्कृच्छ् शूद्री दानेन शुद्धयति ॥२२७ ब्राह्मण्या ब्राह्मणी स्पृष्टा वेदक्योदक्यया च ते । चरतां पादकृच्छे द्वे कृते स्नाने विशुद्धयति ॥२२८ ब्राह्मणी क्षत्रियां स्पृष्टा ब्राह्मणीब्रतमाचरेत् । अपरा क्षत्रियायास्तु वक्तव्यमेवमन्ययोः ।।२२६ रजस्वला तु संस्पृष्टा श्व-विट्-शूद्रैश्च वायसैः। स्नानं यावन्निराहारं पंचगव्येन शुद्धयति ।।२३० उदक्या ब्राह्मणी स्पृटा मेद-मातंग-भिल्लकैः । गोमूत्रयावकाहारा पड़ात्रेण च शुद्धयति ।।२३१