________________
८४६
ऽध्यायः] प्रायश्चित्तवर्णनम्।
महापातक शुध्यर्थं सर्वा निष्कृतयो नरैः। नृप-प्रामेशविदितैः कुर्वाणैः शुद्धिराप्यते ॥२१० सुरामूत्र-पुरीषाणां लोढा त्वेकमकामतः । पुनः संस्कारकरणाच्छुद्धथेदाह पराशरः ।।२११ अभक्ष्यभक्षणो विप्रस्तथैवापेयपानकृत् । व्रतमन्यत्प्रकुर्वीत वदन्त्यन्ये द्विजोत्तमाः ।।२१२ कुशा-जा-ऽश्वत्थ-पालाश-बिल्वोदुन्बरवारिणा । पीतेन जायते शुद्धिः षड्रात्रेण न संशयः ।।२१३ द्रोण्यम्बूशीर-कुम्भाभः श्वस्पृष्टं केशवारि च । पीत्वारण्ये प्रपातोऽयं पंचगव्यं मिबच्छुचिः ॥२१४ भाण्डस्थितमभोज्यानं पयो-दधि-घृतं पिबन् । द्विजातेरुपवासः स्याच्छूद्रो दानेन शुध्यति ।।२१५ तत्तोयपीतजीणांगः तप्तकृच्छू चरेद्विजः। पांत तु तज्जले सद्यः प्राजापत्यं समाचरेत् ।।२१६ रजकाद्यंबुपानेन प्राजापत्यं बुधै स्मृतम् । वान्ते जले तदधं तु शूद्रः स्यात्पादकृच्छ्रकृत् ।।२१७ चाण्डालकूपपानेन महदेनः प्रजायते । गोमूत्रयावकाहाराः सुद्धयेयुर्दिवसैखिभिः ॥२१८ घृतं दधि तथा दुग्धं गोष्ठे वाऽशौचसूतके। . अभिचारस्य तद्भुक्त्वा भुक्त्वा वा शूद्रभोजनम् ।।२१६ द्रुपदां वा तिजो जप्त्वा मानस्तोकमथापि वा। क्षुधातिपीडितः पश्चादिति प्राह पराशरः ॥२२०
५४