SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [अष्टमोकामतस्तु द्विजः कुर्यादुक्तस्त्रीगमनं यदि। चंद्रवतद्वयं शुध्यै प्राह पाराशरो मुनिः ॥१७८ दुग्धं सलवणं सक्तून् सदुग्धान्निशि सामिषान् । दन्तच्छिन्नान्सकृदंतान्पृथक् पीतजलानि च ॥१७६ योऽद्यादुछिटमाज्यं तु पीत रोषं जलं पिवेत् । एकैकशो विशुद्वयर्थं विप्रः चंद्रवतं चरेत् ।।१८० वासांसि धावतो यत्र पतन्ति जलविन्दवः। तदपुग्यं जलस्थानं नरकस्य शिलान्तिकम् ॥१८१ तत्र पीत्वा जलं विप्रः श्रान्तस्तृट्परिपीडितः । तदेनसो विशुद्धथयं कुर्याच्चान्द्रायणं व्रतम् ॥१८२ नटी शैलूषिकी चैव रजकी वेणुवादिनीम् । गत्वा चान्द्रायणं कुर्यात्तथाचर्मोपजीविनीम् ॥१८३ गां नृपं चैव वैश्यं च शूद्र वाप्यनुलोमजम् । क्षत्रियादिस्त्रियं गत्वा विप्रश्चान्द्रायणं चरेत् ॥१८४ ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददन् । द्वावप्येतावभोज्यान्नौ चरेतां शशिनो व्रतम् ॥१८५ विप्रेणामंत्रितोऽविप्रः शूद्राहूतश्च योऽशुते। आमंत्रयितृ-भोक्तारौ शुद्ध्येतामैन्दवेन तु ॥१८६ सामानार्षा च यो गच्छन्मात्रा सह सगोत्रजाम । मातुलस्य सुतां चैव विप्रश्चान्द्रायणं चरेत् ॥१८७ पीतरोषं जलं पीत्वा भुक्तशेषं तथा घृतम् । अत्त्वा मूत्र-पुरीषे तु द्विजश्चान्द्रायणं चरेत् ॥१८८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy