SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम्। ८४५ पारावत-कपोतघ्नः सारि-तित्तिर-चापहा । त्रिसंध्यांतर्जले प्राणानायम्य स्याच्छुचिर्द्विजः ॥१६७ काकं गृधं च श्येनं च अन्य क्रयादपक्षिणम् । हत्वा स्यादुपवासेन शुद्धिमाह पराशरः ॥१६८ मार्जारं मूषकं सपं हत्वाऽजगर-डिण्डिभौ । शर्कराभोजनं दण्डमायसं च ददन् शुचिः ॥१६६ मेषं च शशकं गोधां हत्वा कूमं च शल्लकम् । वार्ताकं गूजनं जग्ध्वा ऽहोरात्रोपोषणाच्छुचिः॥१७० वृकं च जंबुकं हत्वा तरक्षौ तथा द्विजः। त्रिरात्रोपोषितः शुद्रयत्तिलप्रस्थप्रदानतः ॥१७१ द्विजः शाखामृगं हत्वा सिंहं चित्रकमेव च । कृत्वा सप्तोपवासान्स दद्याद्राह्मणभोजनम् ॥१७२ महिषोष्ट्रगजाऽश्वानां हत्वा चान्यतमं द्विजः । त्रिः स्नात्वा चोपवासेन शुद्धः स्याद् द्विजपूजनात् ॥१७३ वराहं यदि वा रोहं हत्वा मृगमकामतः । अफालकृष्टभोजी सन् नक्तनैकेन शुद्धयति ॥१७४ अथान्यत्सम्प्रवक्ष्यामि अस्पृत्यस्पर्शनादिषु । अभक्ष्यभक्षणादौ च निष्कृति श्रोतुमहेथ ।।१७५ उदक्या ब्राह्मणी स्पृष्टा मातंगपतितेन च । चान्द्रायणेन शुद्धथेत द्विजानां भोजनेन च ।।१७६ कापालिकादिकां नारी गत्वाऽगम्यां तथा पराम् । भुक्त्वा विप्रस्तदिनं स्याच्छुद्धिःचंद्रव्रतेन तु ।।१७७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy