________________
बृहत्पराशरस्मृतिः।
[ अष्टमोवस्त्राा त्रासने गौश्च गलदामकदोषतः । पादयोबंधने चैव पादोनं ब्रतमाचरेत् ।।१५६ घण्टाभरणदोषेण गौश्चद्वंधमवाप्नुयात् । चरेदधं व्रतं तत्र भूषणार्थं च यत्कृतम् ।।१५७ गोविपत्ति-बधाशङ्की कुर्याद्यो नैव निष्कृतिम् । सतगोरोमतुल्यानि नरकाण्याविशेत्समाः॥१५८ यःस्नात्वा पापसम्भीत विप्रारा ग्नतत्परः । तद्वत्तां निष्कृतिं कुर्याद्तैनाः सोऽश्नुते शुभम् ॥१५६ अन्यत्प्राणिवधस्याथ प्रवक्ष्यामि विशोधनम् । गजादिवधशुद्धयर्थं यदूतं या च दक्षिणा ॥१६० हस्तिनं तुरगं हत्वा वृषभं खरमेव च । वृषान्यं वा शतगुणं वृषं दद्याद्यथाक्रमम् ॥१६१ क्षणाद्गोनिष्कयं कृत्वा परगोवधकृन्नरः। तस्याथ निष्कृतिं कुर्याद्वधशुद्धिमपेक्षया ॥१६२ हंसं श्येनं कपि गृध्र जल-स्थलशिखण्डिनम् । भासं च हत्वा स्युर्गावः शुद्धथै देयाः पृथक् पृथक्॥१६३ हंस-सारस-चक्राव्ह-मयूर-मद्गु-कुक्कुटान् । आटी-पारावत-क्रौंच-शुकहा नक्तभोजनात् ॥१६४ मेषा-ऽजघ्नो वृषं दद्यात्प्रत्येकं शुद्धये द्विजः । मनीषिणो वदन्त्येनां प्राणिनां वधनिष्कृतिम् ॥१६५ क्रौंच-सारस-हंसादिशिखि-सारसकुक्कुटान् । शुक-टिट्टिभसंघघ्नो नक्ताशी बकहा शुचिः ।।१६६