SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ८४२ वृहत्पराशरस्मृतिः। [अष्टमोशस्त्र-वस्त्राश्म-मृपिण्ड यष्टि-मुष्टि-प्रधावनम् । योक्त्रेण तारणं रोधो बन्धनं विद्युदग्नयः ॥१३४ ग्रह-पङ्क-प्रपातश्च बद्धव्याघ्रादिभक्षणम् । क्षुत्त्रुट्-रोगचिकित्सा च तथाऽतिदोह-वाहने ॥१३५ मृत्युस्थानानि चैतानि गवामति प्रधावनम् । प्रब्रूयात्पृथगेतेषु प्रायश्चित्तं पराशरः ।।१३६ उपेक्षणं च पङ्कादौ तथोपविषभक्षणे । वक्ष्यमाणक्रमेणैतच्छृणुध्वं द्विजसत्तमाः ॥१३७ शस्रण त्रीणि कृच्छ्राणि तदधं वा समाचरेत् । अश्मना द्वे चरेत्कृच्छ्र मृत्पिण्डे नापि कृच्छूकम् ॥१३८ यष्टयाघाते चरेत्कृच्छ् साक्षान्मुष्टया तु तच्चरेत् । योक्त्त्रेण पादमेकं तु तारणे पादमेव च ॥१३६ रोधने कृच्छूपादे द्वे कृच्छ्रमेकं तु बन्धने । कूपपाते चरेत्कृच्छमधं वाप्यां समाचरेत् ।।१४० गोशकृत्पिण्डघाते च प्राजापत्यं चरेद्विजः। क्षुत्तड् रोगचिकित्सासु कृच्छ्रमुत्प्रेक्षणे चरेत् ।।१४१ पतितां पङ्कलमा वा अवलिप्तां च यो नरः । स्वस्य चान्यस्य चोपेक्ष्य साधं कृच्छू चरेच्छुचिः ॥१४२ एका चेद्बहुभिर्बद्धा वेडिता चेन्नियेत गौः। पादं पादं चरेयुस्ते इति पाराशरोऽब्रवीत् ॥१४३ सुबद्धां येऽवलिप्ताङ्गां पश्यन्तो नोपकुर्वते । घातनोत्प्रेक्षणं प्रोक्तं चरेयुस्ते व्रतं नराः ।।१४४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy