SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [अष्टमोसंवत्सरं चरेत् कृच्छ्र प्रजापत्यमथापि वा। चान्द्रायणं चरेद्वापि त्रीन्मासान् नियतेंद्रियः ॥११३ बते तु क्रियमाणे वै विपत्तिः स्यात्कथंचन । स मृतोऽपि भवेच्छुद्ध इति धर्मविनिर्णयः ॥११४ अनिर्दिष्टस्य पापस्य तथोपपातकस्य च । तच्छुध्यैपावनं कुर्याच्चांद्र ब्रतं समाहितः ॥११५ तिष्ठेन्मासं पयोऽशित्वा पराकं वा चरेद्बतम् । अनिर्दिष्टस्य पापस्य शुद्धिरेषा प्रकीर्तिता ॥११६ ब्राह्मणः क्षत्रियं हत्वा गवां दद्यात्सहस्रकम् । वृषेणैकेन संयुक्तं पापादस्मात्प्रमुच्यते ॥११७ त्रीणि वर्गाणि शुद्धयर्थं ब्रह्मध्नस्य व्रतं चरेत् । चान्द्रायणानि वा त्रीणि कृच्छ्राणि त्रीणि वा ऽचरेत् ॥११८ वैश्यं हत्वा द्विजश्चैवमब्दमेकं ब्रत चरेत् । गवां होकशतं दद्याश्चरेच्चान्द्रायणानि च ॥११६ कृच्छ्राणि त्रीणि वा कुर्याद्वचनाद्विदुषामसौ । ये हन्युरप्रदुष्टां स्त्रीं चातुर्वर्णा द्विजातयः । शूद्रहत्या ब्रतं ते तु चरन्तः शुद्धिमाप्नुयुः ॥१२० शूद्रां ये चानुलोम्येन निहन्त्यव्यभिचारिणीम् । मुनयः शुद्धिमिच्छन्ति चन्द्रब्रतेन केचन ॥१२१ व्यभिचारात्तु ते हत्वा योषितो ब्राह्मणादयः । तिलघेनुं बस्तमवि क्रमाद्दद्युर्विशुद्धये ॥१२२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy