________________
८३२
वृहत्पराशरस्मृतिः। [अष्ठमोअशुचित्वं न तेषां तु पापं वाऽशुभकारणम् । जलाव-गाहनात्तेषां सद्यः शौचं विधीयते ॥२७ .. असगोत्रमसम्बन्धं प्रेतीभूतं तथा द्विजम्.। . ऊवा दग्धा द्विजाः सर्वे स्नानान्ते शुचयः स्मृताः ॥२८ एकरात्रं वदन्त्येके सद्यः स्नानं तथाऽपरे । गोपाहादिमृतानां च मुनयः शुद्धिकारणम् ॥२६ हतः शूरो विपद्यत शत्रुभियंत्र कुत्रचित् । स मुक्तो यतिवत्सद्यः प्रविशेत्परवेधसि ॥३० संन्यासो युद्धसंस्थश्च सम्मुखं शत्रुभिर्नरः । सूर्यमण्डलमेत्ताराविति प्राहुर्मनीषिणः ॥३१ पराङ्मुखे हते सैन्ये यो युद्धाय निवर्तते । तत्पदानीष्टितुल्यानि स्युरित्याह पराशरः ॥३२ वदने प्रविशेषां लोहितं शिरसः पतत् । सोमपानेन ते तुल्या बिन्दवो रुधिरस्य वै ॥३३ सन्यासेन मृता ये वै प्रधने ये तनुत्यजः । मुक्तिभाजो नरास्तेस्युरिति वेदोऽपि कीर्तयेत् ॥३४ सद्यः शौचं विधातव्यं शुद्धिरेवं विधीयते । नोच्यन्ते ते मृता लोके सो ब्रह्मवपुर्णमाः ॥३५ सन्ध्याचारविहीनानां सूतकं ब्राह्मणे ध्रुवम् । अशौचं वा दशाहं स्यादिति पाराशरोऽब्रवीत् ॥३६ राज्ञां तु द्वादशाहः स्यात्पक्षो वैश्यस्य पावनः ! वृषभस्य तथा मासस्त्र्यहादेष्वपि धर्मतः ॥३७