SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम् । भर्तुश्चित्यां समारोहेद्या च नारी पतिव्रता । अहन्येकादशे प्राप्ते पृथपिण्डे नियोजयेत् ॥३७७ श्रौतैश्च स्मातमंत्रैश्च दम्पत्यावेकतां गतौ । एकमृत्युगतौ चैव वहावेकत्र तौ हुतौ ॥३७८ एकत्वं च तयोर्यस्माज्जातमाद्यावसानिकम् । एकादशाहिकं श्राद्धमेकमेव स्मृतं बुधैः ॥३७६ आरुह्य भर्तुश्चितिमंगना या प्राप्नोति मृत्यु बहु सत्वयुक्ता । एकादशाहे तु तयोविधेयं श्राद्ध पृथक्स्वर्गमपेक्ष्य सद्भिः॥३८० एकत्वमिच्छन्ति पतिप्रहीणा एकादशाहादिषु ये नृनार्यः । ते स्वर्गमार्ग विनिहत्य कुर्यः स्त्रीसत्वघातान्नरकेऽधिवासम्॥३८१ समानमृत्युना यस्तु मृतो भर्ता च योषिताम् । तस्याः सपिण्डता तेन पिण्डमेकत्र निर्वपेत् ३८२ स्त्रीपात्रं पतिपात्रे तु सिंचयेदेकमेव हि । श्राद्ध त्रिपुरुषे त्रीणि तत्प्रत्यक्षं पितृन्प्रति ॥३८३ पत्या सह परासुत्वात्तनैवास्याः सपिण्डता । पितामह्यापि चान्यत्र ह्येतदाह पराशरः॥३८४ अन्यप्रीतौ न चान्यस्य तृप्तिः कुत्रापि दृश्यते । एवं धीमानमुत्रापि तस्मान्नैकत्वमाश्रयेत् ॥३८५ एकत्बाश्रयणे धर्मो नार्या लुप्तो भवेद्धृवम् । तस्याः सुकृतसामर्थ्यात्पत्युः स्वर्गमिहेष्यते ॥३८६ भर्ना सह मृता या तु नाकलोकमभीप्सती । साऽऽयश्राद्ध पृथपिण्डा नैकत्वं तु बुधैः स्मृतम् ॥३८७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy