________________
८२६ वृहत्पराशरस्मृतिः। [सप्तमो
पतिं हित्वा तु या नारी गृहादन्यत्र गच्छति । वरेषु रमते नित्यं स्वैरिणी सा प्रकीर्तिता ॥३६७ भर्तुः शासनमुल्लंघ्य स्त्रकामेन प्रवर्तते । दीव्यन्ती च हसन्ती च सा भवेत्कामचारिणी ॥३६८ पतिं विहाय या नारी सवर्णमन्यमाश्रयेत् । वर्तते ब्राह्मणत्वेन द्वितीया स्वैरिणी तु सा ॥३६६ मृते भर्तरि या याति क्षुत्पिपासातुरा परम् । तवाहमिति सम्भाष्य तृतीया स्वैरिणी तु सा ॥३७० देश-कालाद्यपेक्ष्यैव गुरुभिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै चतुर्थी स्वैरिणी तु सा ॥३७१ आसु पुत्रास्तु ये जाता वास्ते हव्य-कव्ययोः । तथैव पतयस्तासां वर्जनीयाः प्रयमतः ॥३७२ श्राद्धं च न कर्तव्यं प्रतिलोमविधानतः। वैश्वश्राद्ध पितृश्राद्ध प्रतिलोमविधानतः । वर्णाश्रमवहिःस्थास्ते संकीर्णजन्मसम्भवाः ॥३७३ मातृणां च पितृणां च स्वीयानां पिण्डदाः स्मृताः । उपपतिसुतो यस्तु यश्चैव दीधिषूपतिः ॥३७४ परपूर्वपतेर्जाताः सर्वे वाः प्रयत्नतः । अजापालादिजाताश्च विशेषेण तु वर्जयेत् ।।३७५ मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । इतरेषु च वर्णेषु तपः परममुच्यते ॥३७६