________________
४२३
ऽध्यायः ]
श्राद्धवर्णनम् । एकस्य प्रथमं श्राद्धमर्वागब्दाच्च मासिकम् । प्रतिसंवत्सरं चैव शेषं त्रिपुरुषं स्मृतम् ॥३३५ सपिण्डीकरणादूवं प्रतिसंवत्सरं सुतैः । माता-पित्रोः पृथक्कार्यमेकोदिष्टं क्षयाहनि ॥३३६ सपिण्डिकरणादूर्व प्रतिसंवत्सरं द्विजः। एकोद्दिष्टं प्रकुर्वीत पित्रोरप्यत्र पार्वणम् ॥३३७ चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन तत्कुर्याच्छनपातिते ॥३३८ पित्रादयस्त्रयो यस्य शस्त्रपातास्त्वनुक्रमात् । सम्भूतः पार्वण कुर्यादष्टकानि पृथक् पृथक् ॥३३६ सपिण्डीकरणादूवं पितुर्यः प्रपितामहः । स तु लेपभुगित्येव प्रलुप्तः पितृपिण्डतः ॥३४० सपिण्डीकरणादूध्वं कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वच्छागलेयो विधिः स्मृतः ॥३४१ सपिण्डता तु कर्तव्या पितुः पुत्रैः पृथक् पृथक् । स्वाधिकारप्रवृत्तवादितरः श्राद्धकर्तृवत् ।।३४२ तीर्थश्राद्धं गयाश्राद्धं श्राद्धं वा परपन्थिकम् । सपिण्डीकरणे कुर्यादकृते तु निवर्तते ॥३४३ । यस्य संवत्सरार्वाक् सपिण्डीकरण भवेत् । . प्रतिमासं तस्य कुर्यात् प्रतिसंवत्सरं तथा ॥३४४ अर्वाक संवत्सरावृद्धौ पूर्णे संवत्सरेऽपि च । ये सपिण्डीकृताः प्रेता न तु तेषां पृथकिक्रया॥३४५