SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ८२२ वृहत्पराशरस्मृतिः। [सप्तमोयशः शुचित्वं कुप्यानि सिद्धिं चैवात्मवाञ्छिताम् । यशश्च दीर्घमायुश्च तथैवानुत्तमा मतिम् ॥३२४ अथान्यत्किञ्चिदाख्यामि पितृणां तु हिताय वै । कृतेन स्वल्पकेनापि प्राप्नुवन्ति विधेः फलम् ॥३२५ उच्छिष्टस्य विसर्गाथं विधिस्तात्कालिको हि यः। श्राद्ध विहितं यत्प्राक् पितॄणां हितकाटिभिः ॥३२६ आदाय सर्वमुच्छिष्टमवनेजनवबुधः । तत्रैव निक्षिपेत् भूमौ तिल-दर्भसमन्वितम् ॥३२७ नरकेषु गता ये वै अपमृत्युमृता मम । एतदाप्यायनं तेषां चिरायास्त्विति चोचरेत् ।।३२८ करस्य मध्यतो देवाः करपृष्ठेतु राक्षसाः। पात्रस्यालम्भनादौ च तस्मात्तं न प्रदर्शयेत् ।।३२६ दर्भाश्च स्वयमानेया दक्षिणाप्रवणोद्भवाः । तर्पणाद्युज्झिता ये वै इत्याद्यांश्च विवर्जयेत् ॥३३० न कुशं कुशमित्याहुईभमूलं कुश.स्मृतः । छिन्ना दर्भा इति प्रोक्तास्तदनं कुतपः स्मृतः ॥३३१ हरिता यज्ञिया दर्भाः पीतकाः पाकयाज्ञिकाः । सकुशाः पितृदेवत्याच्छिन्ना वैवैश्वदैविकाः॥३३२ दर्भमूले स्थितो ब्रह्मा दर्भमध्ये जनार्दनः। दर्भाग्रे शङ्करस्तस्थौ दर्भा देवत्रयान्विताः ॥३३३ अहन्येकादशे श्राद्ध प्रतिमासं तु वत्सरम् । प्रति संवत्सरं कार्यमेकोद्दिष्टं तु सर्वदा ॥३३४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy