SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम् । . ८२१ पञ्च पिण्डान्प्रदद्याद्वै दैवं रूपमनुस्मरन् । विष्णु-ब्रह्म-शिवेभ्यश्च त्रीन्पिण्डांश्च यथाक्रमम् ॥३१४ यमाय सानुगायाथ चतुर्थ पिण्डमुत्सृजेत् । मृतं सश्चित्य मनसा गोत्र-नामकपूर्वकम् ॥३१५ विष्णु स्मृत्वा क्षिपेत्पिण्डं पञ्चमञ्च ततः पुनः । दक्षिणाभिमुखश्चैव निर्वपेस्पञ्च पिण्डकान् ॥३१६ आचम्य ब्राह्मण पश्चात्त्रोक्षणादिकमाचरेत् । हिरण्येन च वासोभिर्गोभिर्भम्या च तान्द्विजान् ॥३१७ प्रणम्य शिरसा पश्चाद्विनयेन प्रसादयेत् । तिलोदकं करे दत्वा प्रेतं संस्मृत्य चेतसि । गोत्रपूर्व क्षिपेत्पाणौ विष्णुं बुद्धौ निवेश्य च ॥३१८ बहिर्गवा तिलाम्भस्तु तस्मैदद्यात्समाहितः । मित्रभृत्यैनिजैः साद्धं पश्चाद्भुञ्जीत वाग्यतः ॥३१६ एवं विष्णुमते स्थित्वा यो दद्यात्पापमृत्यवे । समुद्धरति तं प्रेतं पराशरवचो यथा ॥३२० सर्वेषां पापमृत्यूनां कार्यो नारायणो बलिः । तस्मादूध्वं च तेभ्यो हि प्रदत्तमुपतिष्ठति ॥३२१ एवं श्राद्धः समस्तान्यः सन्तर्पयति वै पितृन् । ददत्यनुत्तमांस्तस्य पितरस्तर्पिता वरान् ॥३२२ विद्या-तपोमुखान्पुत्रान्पूज्यत्वमथ योषितः। सौभाग्यश्वर्य-तेजश्व बलं श्रेष्ठ्यमरोगताम् ॥३२३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy