SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम् । ८१६ सन्तानेप्सुस्त्रयोदश्यां न पिण्डान् पातयेन्नरः । पातयेत्तमनिच्छंश्च प्राह सत्यवतीपतिः ॥२६२ मघायुक्तत्रयोदश्यां पिण्डनिर्वपणं द्विजः। स सन्तानो नैव कुर्यादित्यन्ये कवयो विदुः ॥२६३ यः सक्रमे भानुदिने च कुर्यादुपोषणं पारणकं द्विजन्मा । पिण्डप्रदानं पितृभे च तद्वज्येष्ठो विपद्यत सुतोऽनुजो वा २६४ पुत्रदा पञ्चमी कर्तुस्तथैवैकादशी तिथिः । सर्वकामा.त्वमावास्या पञ्चम्यूवं शुभाः स्मृताः ॥२६५ अन्नक्षीरं घृतं क्षौद्रमैक्षवं कालशाकवत् । एतैस्तु तर्पितैविप्रैस्तर्पिताः पितरो नृणाम् ।।२६६ देशः पर्व च कालश्च हविः पात्रं च सक्रियाः। पितृ-दैविकचित्तत्वं योगश्चेपितृभादिभिः ॥२६७ शौचं च पात्रशुद्धिश्च श्रद्धा च परमा यदि । अन्न तत्तृप्तिकृच्छ्राद्ध एतत्खलु न चाऽमिषे ॥२६८ यस्तु प्राणिवधं कृत्वा मांसेन तर्पयेत् पितृन् । सोऽविद्वाश्चंदनं दग्ध्वा कुर्यादङ्गारविक्रयम् ॥२६६ क्षिप्त्वा कूपे यथा किञ्चिद्वाल आदातुमिच्छति । पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा ॥३०० सर्वथाऽन्नं यदा न स्यात्तदेवामिष माश्रयेत् । ब्राह्मणश्च स्वयं नाद्यात्तच्च श्वादिहतं यदि ॥३०१ अथान्यत् पापमृत्यूनां शुद्धयर्थ श्राद्धमुच्यते । कृतेन तेन येषां तु प्रदत्तमुपतिष्ठति ॥३०२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy