________________
८१८
[सप्तमो
वृहत्पराशरस्मृतिः। पिण्डानां मध्यमं पिण्डं पितृन्ध्यायन् समाहितः । प्राशयेत्पुत्रकामां तु भार्या तच्छ्राद्धकृन्नरः ॥२८१ स्नुषा वापि सगोत्रा वा पुत्रकामा द्विजाज्ञया । आधत्त पितरो गर्भ ब्याहरेयुर्द्विजातयः ।।२८२ महारोगगृहीतो वा तद्रोगोपशमाय च । घ्नन्तु मे पितरो रोगमित्युक्त्वा प्राशयेञ्चरुम् ॥२८३ अन्यानप्सु हुताशे वा क्षिपेत्पिण्डान्द्विजाय वा। अजाय वा प्रदद्याञ्च पश्चाद्विप्रविसर्जनम् ॥२८४ उद्धारं पैतृकादेके पाकान्मातामहाय च । एकेनैव हि चैकेऽपि षट्दैवत्यादिति श्रुतिः ।।२८५ उद्धारं पितृकादेके पाकान्मातामहाय तु । एकेनैव हि गच्छन्ति भिन्न गोत्रास्तथा द्विजाः ॥२८६ निदध्युः पृथगुद्धृत्य पात्रे पिण्डार्थमोदनम् । तथा पाकमपीच्छन्ति भिन्नगोत्रतया द्विजाः ।।२८७ आब्दिके ऽक्षय्यस्थाने तु वक्तव्यमुपतिष्ठताम् । अभिरम्यता स्वधास्थाने विप्रोक्तिरभिरताः स्मह ॥२८८ ऊर्ध्वन्तुप्रोष्ठपद्यास्तु प्रतिपदादिकाश्च याः। पुण्यास्तास्तिथयः सर्वा दशापि सहपञ्चभिः ॥२८६ तेषां चतुर्दशी प्रोक्ता ये शस्त्रेण हता नराः। पितृभे च त्रयोदश्यां गयाश्राद्धादिकं फलम् ॥२६० न तत्र पातयेत्पिण्डान् सन्तानेप्सुः कदाचन । पिण्डदानेन कवयो वंशक्षयं वदन्ति हि ॥२६१