________________
वृहत्पराशरस्मृतिः। [ सप्तमोजप्वा वै वैष्णवान्मन्त्रान्विप्रान्याद्यथासुखम् । भुञ्जीरन्वाग्यतास्तेतु पितृ-देवहितैषिणः ॥२५६ अत्युष्णमशनं कायं वचो वाच्यं पितृष्वदः । शूद्रं च शूकर-ध्वाङ्ग-कुक्कुटानपनाययेत् ॥२६० भुञ्जते ब्राह्मणा यावत्तावत्पुण्यं जपेजपम् । पावमान्यानि वाक्यानि पितृसूक्तानि चैव हि ॥२६१ ततस्तृप्तान द्विजान्पृच्छेत्तृप्तास्थेत्ययनुशासनम् । तृप्तास्मेति द्विजा युस्तदन्न विकिरेद्भुवि ॥२६२ सकसकृत्त्वपो दत्वा शेषमन्न निवेदयेत् । यथानुज्ञा तथा कृत्वा पिण्डांस्तदनु निर्वपेत् ।।२६३ यद्यद्भुक्तं द्विजैरन्न तत्तदादाय वित्तरः । थालीपाकं तिलोपेतं दक्षिणाशामुखस्ततः ॥२६४ अवनिज्य तिलान्द पिण्डार्थमवनीतले। तस्मिंश्च निर्वपेपिण्डान् गोत्रनामकपूर्वकान् ॥२६५ ये देवलोकं पितृलोकमापुः प्राप्तास्तथैवं नरकं नरा ये। अन्नौ हुतेन द्विजभोजनेन तृप्यन्ति पिण्डे वि तैः प्रदत्तैः२६६ यदन्न लेपरूपं तु क्रमात्तेषु च निक्षिपेत् । प्रक्षाल्य सलिलं तत्र अवनेजनवत्पुनः ।।२६७ निवृत्तानर्चयेत्पिण्डान् पुष्प-गन्धविलेपनैः । दीप-वासः प्रदानेन पितृनय॑ समाहितः ।।२६८ वासो वस्त्रदशा दद्याद्विधिवन्मन्त्रपूर्वकम् । केचिऽदत्राऽविकं लोम केचिन्मतं न तत्त्विति ॥२६६