________________
ऽध्यायः] . श्राद्धवर्णनम् ।
८१५ काञ्जिकं दधि तक्रौंच शृतं चाशृतमेव वा। पूर्वाह्ने न प्रदातव्यं एकोदिष्टेऽथ पार्वणे ॥२४६ आपिण्डदानतो दद्याद्यत्किञ्चिच्छ्राद्धवासरे। तेनैव पितरो यान्ति श्राद्धं गृह्णन्ति नैव च ॥२५० परिवेषयेत्समं सर्व न कार्य पंक्तिभेदनम् । पंक्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ।
आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥२५१ यद्यपत्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि चार्थलोभात् । वेदैश्च दृष्टं ऋषिभिश्च गीतं तद्ब्रह्महत्यां मुनयो वदन्ति ॥२५२
देवान्पितन्मनुष्यांश्च वहिमभ्यागतांस्तथा । अनभ्यर्च्य तु भुञ्जानो वृथापाक इति स्मृतः ॥२५३ पृथ्वी ते पात्रमित्येतत्यौरपीति पिधानकम् । एतद्वै ब्राह्मणस्यास्ये जुहोमि चामृतेऽमृतम ॥२५४ इदं विष्णुरिति ह्येतन्मन्त्रमुच्चार्य चापरे । द्विजाङ्गुष्ठं च तत्रान्ने निवेशयन्ति तद्विदः ॥२५५ जप्त्वा व्याहृतिभिः सायां गायत्री मधुमतीरिति । सङ्कल्प्यान्नमपोशानं त्याच मधुमध्धिति ॥२५६ आपोशानं प्रदेयान्नं न तत्संकल्पयेद्विजः। सङ्कल्यानरके याति निराशैः पितृभिर्गतैः ॥२५७ आपोशानोदके विप्रपाणौ तिष्ठति यो द्विजः । सङ्कल्पं कुरुतेऽज्ञानात् स्युम्तस्य पितरो हताः ॥२५८