________________
८१४
वृहत्पराशरस्मृतिः। . [सप्तमोशर्करा-गुड-खण्डादि संशुद्ध क्षौद्रमेव च।
पितृश्राद्ध हविमुख्यं यद्वा तद्वाप्यलाभतः ।।२३८ यदेहिनामत्र शरीरपुष्य धाता ससर्जाशननाम किञ्चित् । तत्सर्वधान्यान्नमिति ह्यवादि त्रेधा मुनीन्द्रेण पराशरेण ।।२३६ शामावरट्यादिककम्बुजाति यत्किञ्चिदस्मिंस्तुपसारभूतम् । आरण्यजं वा कृषिसम्भवं वा सत्यं तदुक्तं मुनिनाशनेषु ।।२४० काण्डोद्भवं यत्वशनेषु किञ्चित् पङ्कोद्भवं वा स्थलसम्भवं वा । यत्तुच्छसारं बहुसारमस्मिन्सर्वाणि धान्यानि च शूकवन्ति ।।२४१ यत्सर्वसारं सतुषं च भक्ष्यं निःशूकशूकान्धितमत्र किञ्चित् । आप्यायनं देहभृतां च सद्यस्तत्प्रोक्तमन्नं ह्यशनेन सद्भिः॥२४२
प्रतिश्रुतं च भुक्तं च कटुतिक्तं च यत्तथा । केचिदूचुरदेयानि यत् खातप्रतिरोपितम् ।।२४३ तुण्डिकेरान्यलावूनि लिङ्गाख्यानि च यानि तु । श्राद्ध नित्यमदेयानि प्राह सत्यवतीपतिः॥२४४ सोङ्कारया वै गायच्या दशावर्तितया जलम् । पूतं तु तेन तत् प्रोक्ष्यं सर्वमन्नं विशुद्धये ॥२४५ शुद्धवत्योथ कूष्माण्ड्यः पावमान्यस्तरत्समाः। पूतं तु वारिणेताभिरनशोधनमुत्तमम् ।।२४६ तद्विष्णोरिति मन्त्रेण गायत्र्या च प्रयत्नवान् । प्रोक्षयेदशनं सर्व शूद्रदृष्ट्यादिशुद्धये ॥२४७ गृहाग्नि-शिशु-देवानां यतीनां ब्रह्मचारिणाम् । तावन्न दीयते किञ्चिद्यावत् पिण्डान्न निर्वपेत् ॥२४८