________________
ऽध्यायः ]
श्राद्धवर्णनम्। मसूराञ्जनपुष्पं च श्राद्ध दत्वा पतत्यधः । विषच्छद्महतं मांसमन्यच्च चिरसंस्थितम् ।।२२८ नित्यं श्राद्ध ऽपि वजं स्याद्विड्वराह-चकोरयोः। स्वायम्भुवादिभिः सर्वैर्मुनिभिर्धर्मदर्शिभिः ।।२२६
निषिद्धानि न देयानि पितृणामहितानि च । एकेन किञ्चित् अपरेण किञ्चित् किञ्चिच किञ्चिच्च परैर्मुनीन्द्रः। श्राद्धे निषिद्धं ह्यशनादि विद्वन्सवं पितॄणां ननु किश्च देयम् ।।२३० सौवीर-ति तैलवणादिकैस्तत्पात्रस्य शुद्धिर्भवतीह यैस्तु । तद्वीजपूरान्मरिचादियोगासिद्धं प्रदेयं ननु दुष्यतीह॥२३१ श्राद्धे तु यस्य द्विज दीयमानं पित्रादिकस्येह भवेन्मनुष्यैः । राद्वस्तु यस्येह मनस्यभीष्टमासीत्पुरा तत्य तदेव देयम् ।।२३२ दातुश्च यस्मिन्मनसोऽभिलाषः श्रद्धा भवेत्तत्र तु दीयमाने । श्राद्ध ऽपि देयं विधिवत्तदेव तहत्तमक्षय्यमिति प्रवादः ।।२३३ आनीतमम्भो निशि यत्कथञ्चित् यत्पाणिदत्तं भवतीह विद्वन् । हेमाम्बुनिक्षेपहरिस्मृतिभ्यामच्छिद्रतामेति पराशरोक्तिः ।।२३४ यत् क्षीरसाक्षवखण्डयोगाच्छाखाभिधेयं भवतीह विद्वन् । प्राण्यङ्गधूपान्मरिचादियोगात् पाकस्य सिद्धि प्रवदन्ति तज्ज्ञाः ॥२३५
व्रीहयो यव-गोधूमा मुद्रा माषास्तिलास्तथा । नीवारः श्यामकाद्यं च अकृष्टसम्भवानि च ॥२३६ आरण्यकालशाकादि प्रतिपिद्धापराणि च । माहेयीक्षीरमध्वादि खड्गादिपिशितानि च ॥२३७