________________
८१२
वृहत्पराशरस्मृतिः। [सप्तमोपरिवेष्य हविः सर्व तदथं यच्च वै शृतम् । अभिमन्त्र्य ततः पात्रे आपोशानप्रदानवत् ॥२१७ अन्नपूर्णस्य पात्रस्य कर्तव्यमभिषेचनम् । अपो दत्वा तु सङ्कल्प्यमेष श्राद्धविधिर्वरः ।।२१८ वर्जितानि न देयानि पितृप्रीति विजानता । हविष्याणि प्रदेयानि वक्ष्यमाणानि वर्जयेत् ।।२१९ निष्पावान् राजमाषांश्च कुलित्था। कोरदूषकान् । मसूरान् शीतपाकं च पुलाकं शणमर्कटाः॥२२० आढक्यः सितसिद्धार्थं वल्लानि स्विन्नधान्यकम् । पिण्याकं परिदग्धं च मथितं च विवर्जयेत् ॥२२१ नापि नीरस-निर्गन्धं करञ्ज सर्वसत्तुकम् । अप्रोक्षितं च यत्किञ्चित्पर्युषितं विवर्जयेत् ।।२२२ लोहितान्वृक्षनिर्यासान्प्रत्यक्षलवणानि च । कृतकृष्णानि लवणं सर्वाः पलाण्डुजातयः॥२२३ कृष्णजीरक-वंशाग्रास्तृणानि च विवर्जयेत् । कुम्भिका-यूप-पालङ्क्यः कटफलं तण्डुलीयकम् ॥२२४ नीलिका च सितच्छत्रा शोभाञ्जन-कुसुम्भिकाः । कोविदार-करौ च सुमुखां मूलकं तथा ।।२२५ कूष्माण्डं गौरवृन्ताकं बृहत्याश्च फलानि च । करीरफल-पुष्पाणि विडङ्ग मरिचानि च ।।२२६ जम्भारिका सुजम्बीरा सुषवी बीजपूरकाः । जम्ब्बलाबूनि पिप्पल्यः पटोलं पिन्डमूलकम् ।।२२७