SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ८११ ऽध्यायः ] श्राद्धवर्णनम् । पंक्तिमूर्धन्यमेवात्र पृच्छेदिति हि केचन । पितृश्राद्धे प्रधानत्वात्सामस्त्येनाथ वा पुनः ।।२०६ तूष्णीं यत्र तु होमादौ प्रजापतिस्तु तत्र तु । तृतीयं मनसा दद्याद्यमायास्त्विति वा पुनः ॥२०७ अहन्येवास्मिंस्तस्मिन्वा संवादोभून्भनोगिरः। अहव्या वाग्यतो पाणी अभूद्यज्ञे प्रजापतेः ।।२०८ अग्नावाहुतयः प्रोक्तास्तिस्त्र एव मनीषिभिः । अग्निवद्विप्रपात्रेषु पश्चात्तज्जुहुयाद्विजः ॥२०६ अग्नौकरणशेषं तु पितृपात्रेषु दापयेत् । प्रतिपाद्य पितृणां तु दद्याद्वै वैश्वदैविके ॥२१० यश्चाग्नौकरणं दद्यापितृविप्रकरेषु च । तेनोच्छेषितमेतत्स्यात्समाप्तिस्तावतैव तु ॥२११ पितरः करवक्त्राश्च वन्हिवक्त्राश्च देवताः। अतःपाणौ न तद्देयं पात्रे देयं कुशान्विते ॥२१२ वैश्वदेविकविप्राणां पात्रे वा यदि वा करे । अनग्निकस्तु तद्दद्यात्प्रथमं वैश्वदैविके ॥२१३ हुतशेषमशेषाणां पात्रे दद्याद्विजोत्तमः । पृच्छेत्सर्वा श्च यत्कृत्यं सामान्येन द्विजोत्तमान् ।।२१४ दत्वाऽग्नौकरणं चान्यत् विप्राणां तृप्तिकृद्धविः । परिवेष्यमिति ब्रूयुस्ततो विधिरनन्तरम् ।।२१५ प्रागग्नौकरणं दद्यादत्वा चान्यत्तु तृप्तिकृत् । एकीकृतं तु भुञ्जानाः प्रीणयन्ति नृणां पितृन् ॥२१६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy