SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ८१० वृहत्पराशरस्मृतिः। [सप्तमो- एते तिलास्तु विधिना शशिलोकतस्तु प्राहत्य भोजनहितेन शुभाय धन्याः । क्षिप्त्वा मलानि पुरुषस्य च तर्पणाद्यैर् ये घ्नन्ति तेषु भुवि सत्सु कुतो भयं स्यात् ॥१६७ तिलोऽसि तारापतिदैवतोऽसि हितोऽस्यशेषपितृ-देवतानाम् । कर्तासि तृप्तिं परमां पितृणां मुक्त स्ततस्त्वं विधिसम्भवोऽसि ॥१६८ अर्घ्यपात्राणि सर्वाणि कृत्वा तान्याद्यपात्रके। पितृभ्य स्थानमसीति न्युजं कुर्यादधश्च तत् ॥१६६ यस्तूद्धरेत्तदज्ञानादर्घ्यपात्रं तु पैतृकम् । तद्धि श्राद्धमभोज्यं स्यात्क्रुद्धः पितृगणैर्गतैः ।।२०० आश्रिय प्रथमं पात्रं तिष्ठन्ति पितरो नृणाम् । श्राद्धे तस्मान्न तद्विद्वानुद्धरेत्प्रथमं सुधीः ॥२०१ वाचयेत्परिपूगं तु वासो दत्वा विधानतः। नत्वा सर्वान्द्विजान्पृच्छे करिष्येऽनाविति द्विजः ॥२०२ अस्त्वेतत्परिपूर्ण तु ब्रूयुरेते द्विजातयः । ससर्पि पात्रमादाय सपिधानं विधानतः ।।२०३ कुरुष्वेति ह्यनुज्ञातो जुहोत्यग्नौ ततः पुनः । भोजने पितृविप्राणामिति मन्त्रमुदीरयेत् ।।२०४ अग्निशब्दं चतुर्थंकवचनान्तं समुच्चरेत् । कव्यवाहनशब्दं च सोमं पितृमदित्यपि ॥२०५ AMA
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy