SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ८०४ वृहत्पराशरस्मृतिः। [ सप्तमोमातामह्या सहेच्छन्ति मातुस्तेऽपि सपिण्डताम् । स्त्रीणां स्त्रीगोत्रसम्बन्धात्पुंगोत्रेण नृणां यतः ॥१३४ सपिण्डी करणे काले श्राद्धद्वयमुपस्थितम् । देवाद्य प्रथमं कुर्यापितृणां तदनन्तरम् ॥१३५ देवाद्य पार्वणं प्रोक्तं प्रेतश्राद्धमथापरम् । एकत्वं तु ततः पश्चात्कृत्वा विप्रांश्च भोजयेत् ॥१३६ पितृणामग्रंपात्राणि प्रेतपात्रमथापरम् । प्रेतपात्रं तु तत्कृत्वा पितृपागेषु योजयेत् ॥१३७ ये समाना इति द्वाभ्यां पूर्ववच्छेषमाचरेत् । सपिण्डीकरणंयस्य कृतं न स्याद्विजन्मनः ॥१३८ अदेवं तस्य देयं स्यापिण्डमेकं तु निर्वपेत् । सपिण्डीकरण चैतस्त्रियाश्चैव क्षयाह्निकम् ॥१३६ एकादशाहिकं त्वाद्य मासि मासि च मासिकम् । वर्षे वर्षे च कर्तव्यं मृतेऽहनि च तत्पुनः॥१४० नाऽपुत्रस्य सपिण्डत्वं केचिदिच्छन्ति तद्विदः । विशेषतोऽनपत्यस्य सत्यप्यत्राधिकारिणि ॥१४१ विद्यमानः पिता यस्य सचेद्यदि विपद्यते । तदन्तरा सपिण्डवं वदन्ति श्राद्धवादिनः ॥१४२ आभ्युदयिकसम्पत्तावर्ची प्रागेव कारयेत् । कुर्यात्परिजनेनेतत्स्वयं वापि द्विजोत्तमः ॥१४३ सन्यसन्सर्वकर्माणि तच्छाद्धाय च तद्दिनम् । अग्निदाहदिनं चके केचिन्मृतदिनं विदुः ॥१४४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy