________________
वृहत्पराशरस्मृतिः । [सप्तमोस्वगोत्रं भोजयेद्यस्तु पितृश्राद्धेषु वै द्विजः। हताः स्युः पितरस्तेन न भुक्तमुपतिष्ठते ॥११३ श्राद्धं कुर्वन्द्वि नोऽज्ञानात् स्वगोत्रं यस्तु भोजयेत् । स लुमपितृदेवस्सन्नरकं प्रतिपद्यते ॥११४ तस्मान्न गोत्रिग विप्रं भोजये द्विधिपूर्वकम् । ज्ञातिमत्वेन भोज्यास्ते उस्थितैस्तु द्विजोत्तमैः ॥११५ दक्षिणाप्रवण देशे श्राद्धं कुर्यात्तु पैतृकम् । पितृणां पावनो देशः स प्रोक्तोऽक्षयतृप्तिकृत् ॥११६ देशे काले च पात्रे च विधिना हविषा च यत् । तिलैदर्भश्च मन्त्रैश्च श्राद्ध स्याच्छद्धयान्वितम् ॥११० तैजसानि तु पात्राणि ह्यन्या भोजनाय च । मृत्पापाणमयान्येके अपराण्यपरे विदुः॥११८ पलाश-पद्य-पत्राणि अनिषिद्धानि यानि च । तानि श्राद्ध पु कार्याणि पितृ-देवहितानि च ॥११६ वृद्धिश्राद्ध पु मन्यन्ते मृण्मयानि तु केचन । शौनकस्य मतं ह्येतद्यथा कार्य तु मृण्मयम् ॥१२० एकद्रव्याणि कार्याणि पात्राणि भोजनार्घयोः । त्रीणि पैतृकपात्राणि द्वे दैवे वैश्वदैविके ॥१२१ एकस्य वैश्वदेवानि पैतृकाण्येकवस्तुनः। इति वा तानि कार्याणि भेदमेकत्र वर्जयेत् ॥१२२ वटा-श्वत्था-ऽर्कपत्रेषु कुम्भी-तिन्दुकयोरपि । कोविदार-करजेपु न भुञ्जीत कदाच न ॥१२३