SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] श्राद्धवर्णनम् । ८०१ सक्रान्तिवर्जितः कालः समलः पापसम्भवः । रक्षसां भागवेयोऽसौ उत्सवादिविवर्जितः ॥१०२ तत्र नैमित्तिक कार्य श्राद्धं पिण्डविवर्जितम् । नित्यं तु सततं कार्यमिति पाराशरोऽब्रवीत् ॥१०३ अहोभिर्गुणितैर्यत्स्यात्तत्कायं यत्र सर्वदा। तिथि-नक्षत्र-योगाश्च जातकर्मादिकाश्च ये ।।१०४ नैमित्तिकाश्च ये चान्ये कार्यास्तेऽपि मलिम्लुचे ।। तीर्थस्नानं गजच्छाय द्विमुखीं गोप्रदानवत् ॥१०५ मलिम्लुचेपि कर्तव्यं सपिण्डीकरणादिकम् । आग्रयणममावास्यामएकाग्रहसक्रमम् ॥१०६ अधिमासेऽपि कायं स्यादिति पाराशरोऽब्रवीत् । नित्यं च नित्यशः कार्यमिटीः काम्याश्च वर्जयेत् ॥१०७ वार्षिकं पिण्डव स्यादन्यस्मिन्पिण्डसंयुतम् । इष्ठिराग्रयणं श्राद्धमन्वाहायं च सर्वदा ॥१०८ कर्तव्यं सततं विरिष्टी:काम्याश्च वर्जयेत् । दैवे कर्मणि सम्प्राप्ते तिथिर्यत्रोदितो रविः। सा तिथिः सकला ज्ञेया विपरीता तु पैतृके ।।१०६ वृद्धिमदिवसे कार्य श्राद्धमाभ्युदिकं द्विजः । क्षीयमाणे दिने कार्य त्राद्धं विद्वन् ! क्षयाह्निकम् ॥११० मित्रे चैव सगोत्रे च पितृ-मातृसहोदरे । आसनं नैव दातव्यं भोक्तव्या एवमेव ते ॥१११ ब्राह्मणं न सगोत्रं च पूजयेपितृकर्मणि । नोपतिष्ठति तत्तेषां किन्तु स्याञ्च निराशता ॥११२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy