SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [सप्तमोमित्रादीनां च कर्तव्यं समीहन्ते यतोऽप्यमी। नावज्ञेयास्तु ते सर्वे कृते तु स्यान्महाफलम् ॥५० पितामहस्तदन्यो वा यस्य जीवन् भवेद्विजः । प्रत्यक्षास्तेऽपि वै पूज्याः संस्थित्यर्थं यतश्च तत् ॥५१ विद्यमानत्रयाणां स्यात्प्रत्यक्षः पूज्य एव सः । गौतमस्य मतं ह्येतदिति वासिष्ठजोऽब्रवीत् ५२ विद्यमाने तु पितरि श्राद्धं कर्तुमुपस्थितः । पितृवपितृपित्रादेः कुर्याच्छ्राद्धमसंशयम् ॥५३ पुत्रिकायाः सुतः श्राद्धं निर्वपेन्मातुरेव सः। तत्पितुर्निर्वपत्यस्मात्तृतीयं तु पितुःपितुः ।। ५४ अत एव द्विजः पुत्रीमुद्वहेन्न कथं च न । उद्वोढुः पुत्रः पुत्रोऽसौ पुत्रोऽसौ मातुरेव हि ॥५५ पुत्रश्च दुहितुःपुत्रः समौ तौ धार्मिके पथि । अर्थाहृतौ च विप्रोक्तौ तुल्यौ तौ शक्तिजोऽब्रवीत् ॥५६ मुख्यं यथा पितुःश्राद्धं तथा मातामहस्य च । पुत्र-दौहित्रयोलोंके विशेषो नोपपद्यते ॥५७ दौहित्रः पावनः श्राद्ध कालस्तु कुतपस्तथा । तथा कृष्णास्तिला विद्वन्निति शास्त्रविदो विदुः ॥५८ काम्यमाभ्युदयं चैव द्विविधं पार्वणं स्मृतम् । यथाकामं तु काम्यं स्याद्वृद्धावभ्युदये स्मृतम् ॥५६ क्षत्रियायां तु यो जातो वैश्यायां च तथा सुतः । ब्राह्मणस्य पितुस्तौ तु निर्वपेतां द्विजाग्यवत् ॥६०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy