SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] श्राद्धवर्णनम् । कृतोपवासस्तत्राहि श्राद्धर्णान्मुच्यते द्विजः। एतच्चापि न यः कुर्यात्पितरस्तेन वै हताः ॥३६ सम्पत्तावर्थ-पात्राणामेकैकस्य त्रयस्त्रयः। पित्रादेाह्मणाः प्रोक्ताश्चत्वारो वैश्वदैविके ॥४० द्वौ वापि दैविके विप्रो चैकैको वा न दोषभाक् । स्यान्मातामहिकेऽप्येवमेकोऽपि वैश्वदैविके ॥४१ , नत्वैवैकं तु सर्वेषामाश्वलायनमतस्थितः । पितृणामर्चयेद्विप्रमत्रपिण्डा निदर्शनम् ॥४२ न मातामहिकं श्राद्ध श्रौतमुक्तं तु साग्निकः । अनग्निकस्तु तत्कुर्यादिति केचिन्मतं विदुः ॥४३ सानिरपि कार्य स्याच्छाद्ध मातामहं द्विजैः। षट्दैवत्यमिति ोके एके तु पार्वणद्वयम् ॥४४४ अपुत्रस्य पितृव्यस्य तत्पुत्रैर्धातृजो भवेत् । स एव तस्य कुर्वीत पिण्डदानोदकक्रियाः ॥४५ पार्वणं तेन कार्य स्यात्पुत्रवद्भ्रातृजेन तु । पितृस्थानेषु तं कृत्वा शेषं पूर्ववदुञ्चरेत् ॥४६ श्राद्धं पत्यापि कार्य स्यादपुत्रायास्तु योषितः। तस्यापि हि तया कार्यमेकत्वं हि तयोर्यतः॥४७ भ्रातुर्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च । देवहीनं तु तत्कुर्यादिति धर्मविदो विदुः॥४८ ... पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया ॥ .. पुत्राभावे तु पुत्री च तदभावे सहोदरः ॥४६ .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy