SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [सप्तमोन म्लेच्छ-पतितः साधं न वदेच निषिद्धकम् ॥ . प्राङ्मुखौ दैविको विप्रो विप्रास्त्रय उदङ्मुखाः ॥३२ एकैको वोभयत्र स्यादसम्पत्ताविति क्रमः। पात्रं वा दैविकं कृत्वा विप्र एकस्तु पैतृके ॥३३ इति वा निर्वपेच्छ्राद्ध निर्घनश्चान्यदाचरेत् । गत्वारण्यममानुष्यमूर्ध्ववाहुविरौत्यदः ॥३४ निरनो निर्धनो देवाः पितरो माऽनृणं कृथाः। न मेऽस्ति वित्तं न गृहं न भार्या श्राद्ध कथं वः पितरः करोमि । वने प्रविश्येह रुतं मयोचैर् भुजौ कृतौ वर्त्मनि मारुतस्य ॥३५ श्राद्धर्णमेतद्भवता प्रदत्तं मह्यं दयध्वं पितृदेवताद्याः। आख्याय चोक्षिप्य भुजावितस्ततो दिवा च रात्रिं समुपोष्य तिष्ठेत् ॥३६ भवेन्नरस्तेन कृतेन तेषामृणेन मुक्तः पितृदेवतानाम्।। निर्वित्त-निर्भाग्य-निराश्रयाणां श्राद्धस्य मार्गः कथितो मुनींद्रः ।।३७ मयाऽऽख्यातं रुदित्वा वः पितरः श्राद्धदेवताः । श्राद्धर्णस्य विमुक्तोऽहं महिताः पितरो मया ॥३८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy