________________
७६७
ऽध्यायः]
श्राद्धवर्णनम् । क्षत्रियस्य सुतश्चैव तथा वैश्यसुतोऽपि च । शृतान्नेन द्विजास्तर्घ्य श्राद्धद्वयं च निर्वपेत् ॥६१ आमानेन तु शूद्रस्य तूष्णीं च द्विजपूजनम् । कृत्वा श्राद्धंतु निर्वाप्य सजातीनाशयेत्तथा ॥६२ यः शूद्रो भोजयेद्विप्रांच्छृतपाकाशनेन तु। स तद्विप्रकृतैनोभिलिप्यते शक्तिजोऽब्रवीत् ॥६३ शूद्रपाकं द्विजेभ्यश्च विभवान्धो ददाति यः । कृमी भवति पाताले स युगानेकविंशतिम् ।।६४ भोजितेन तु विप्रेण यत्पापं तस्य जायते । तेनासौ लिप्यते मूढो यः शूद्रो भोजये द्विजान् ॥६५ योऽहंमन्यो द्विजाग्रंथास्तु शूद्रश्रितेन भोजयेत् । स गच्छन्नरकं घोरं पुनरावृत्तिदुर्लभम् ॥६६ यत्किचिकिल्बिषं विप्रे कृतपूर्व तु तिष्ठति । तेनासौ लिप्यते पापी यः शूद्रो भोजये द्विजान् ॥६७ शूद्रोच्छिष्टं तु यो भुङ्क्ते मतिपूर्व द्विजाधमः । कृमित्वं याति विष्ठायां युगानि टेकविंशतिः ॥६८ शूद्रोच्छिष्टं तु यो भुङ्क्ते पञ्चाहानि द्विजाधमः। स तद्विष्ठाकृमित्वं तु प्राप्नोति हि शतं समाः ॥६६ अतो न भोजये द्विप्रानिर्वपेन्नैव पूजयेत् । शूद्रान्नं भोजनाद्युक्तं इति पाराशरोऽब्रवीत् ॥७० न भोजयेत् स्त्रियं श्राद्ध यद्यपि ब्रतचारिणीम् । पात्रं तस्यै समयं स्यादिति धर्मविदब्रवीत् । द्विजन्मानो न कुर्वीरंच्छ्राद्धमामाशनेन तु ॥७१