SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्रावण श्राद्धवर्णनम्। ॥ सप्तमोऽध्यायः ॥ अथ श्राद्धवर्णनम् । श्राद्धं वृद्धावचन्द्रभच्छाया-ग्रहण-सक्रमे । व्यतीपात-विषुवत्कृष्णपक्ष-पात्रार्थलब्धिषु ॥१ अष्टका ह्ययने द्वे च श्राद्धम्प्रति यदा रुचिः । पुण्य श्राद्धस्य कालोऽयमृषिभिः परिकीर्तितः ॥२ युगादिषु च कर्तव्यं मन्वन्तरादिकेऽपि च । श्राद्धकालो ह्ययं प्रोक्तो मन्वाद्यैर्धर्मकर्तृभिः ॥३ नवान्ने नवतोये च नवच्छन्ने तथा गृहे। नावैक्षवेषु चेहन्ते पितरो हि मघास्विव ॥४ काणः पौनर्भवो रोगी पिशुनो वृद्धिजीविकः । कृतघ्नो मत्सरो क्रूरो मित्रघ्र क् कुनखी गदी ॥५ विद्धप्रजननःश्वित्रि-श्यावदन्तावकीणिनः । हीनाङ्गश्चातिरिक्ताङ्गो विक्लवः परनिन्दकः॥६ क्लीवा-ऽभिशस्त-वाग्दुष्ट-भृतकाध्यापकास्तथा । कन्यादृषी वणिग्वृत्तिविनाग्निः सोमविक्रयी ॥७ भार्याजितोऽनपत्यश्च कुण्डाशी कुण्डगोलकः । पित्रादित्यागकृत्स्तेनो वृषलीपति-तर्जको ।।८ अनुक्तवृत्तिस्त्वज्ञातः परपूर्वापतिस्तथा । अजापालो माहिषिकः कर्मदुष्टाश्च निन्दिताः ॥
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy