________________
वहत्पराशरस्मृतिः। [षष्ठोनाकामेदमरादीनां च्छायां च परयोषिताम् । वान्त-ष्ठीवन-विण्मूत्र-कार्पासा-ऽस्थि-कपालिकाः ॥३७३ नावज्ञेयाः कदापि स्युनु प-विप्रोरगादयः। श्रियं कामं समाकांक्षेन्न स्पृशेन्मर्म कस्यचित् ॥२७४ नित्यं वर्तेत चाजस्रं धर्मार्थौ च सदाऽर्जयेत् । न कश्चित्ताडयेद्धीमान्सुतं शिष्यं च ताडयेत् । ताडयेन्नाभितोऽधस्तान तानन्यत्र ताडयेत् ॥३७५ आचारेण सदा विद्वान्वर्तेत यो जितेंद्रियः। स ब्रह्मपरमाप्नोति वरेण्योऽमुत्र चेह च ॥२७६
आचारमूलं श्रुतिशास्त्रवित्तम् आचारशाखाश्च तदुक्तकृत्यम् । आचारपर्णानि हि तन्नियोग
आचारपुष्पाणि यशोधनानि ॥३७७ आचारवृक्षस्य फलं हि नाकस्तस्माच्च सुस्वादुरसश्च मुक्तिः। तस्मादनन्तं फलदं तु तत्वमाचारमेवाश्रय यत्नपूर्वम् ।।३७८ ये धर्मशास्त्रे विहिताश्च केचिद्धर्मा द्विजाग्योरपि ते च सर्वे। यत्नेन कार्याः पितृ-देवभक्तेः श्राद्धानि कार्याण्यथ तानि वक्ष्ये ३७६ यत्नेन धर्मो गृहमेधिविप्रैः प्रीतेन वाचा वपुषा च कार्यः । आयुप्रजा श्री वि पूजितत्वं तस्माल्लभन्ते दिवि देवभोगान्३८० इति श्रीबृहत्पराशीये धर्मशास्त्रे सुव्रतप्रोक्ताया
धर्मस्मृत्यां षष्ठोऽध्यायः समाप्तः॥ .......