________________
७८६
बृहत्पराशरस्मृतिः। [षष्ठीअन्नादेरपि भक्ष्यस्य स्नेह मद्या ऽऽमिषस्य च । महाफला निवृत्तिःस्यात्प्रवृत्तिः स्वर्गसाधना ॥३३० एकोऽब्दशतमश्वेन यजेत पशुना द्विजः । नान्यस्तु मांसमभाति स्वर्गप्राप्तिस्तयोः समाः॥३३१ हेमराजत-शङ्खानां पात्राणां वैणवस्य च । चर्मणो रज्जुवस्त्राणां शुद्धिर्जायेत वारिणा ॥३३२ स्फ्यादीनां यज्ञपात्राणां धन्यानां वाससामपि । अन्येषां चयरूपाणां प्रोक्षणात् शुद्धिरिष्यते ॥३३३ मार्जनान्मखपात्राणां हस्तेन मखकर्मणि ॥ अम्भोजपत्रकैरुष्णैः शुद्धयतः कौशिकाविके ॥३३४ श्रीफलैरंशुपट्टानां सारिष्टैः कुतपस्य च । मृण्मयानि पुनः पाकैः क्षौमाणि सितसर्षपैः ॥३३५ शुद्धयत कारुहस्तस्थं पण्यं यत्स्यात्प्रसारितम् । भैक्ष्यं च प्रोक्षणाच्छुद्धस्पृष्टिः साक्षान्न यस्य तु ॥३३६ स्त्रीमुखं च सदा शुद्ध भूमिर्लेपविवर्जिता। अपरा दहनाद्यैश्च गृहं मार्जन-लेपनैः ।।३३७ द्रवद्रव्याणि शुद्धयन्ति वह्निना प्लावनेन च । क्रव्यादाचैह तं मासं सर्वदा शुचि कीर्तितम् ॥३३८ तृप्तिकृत्सौरभेयाश्च स्वभावस्थं महीगतम् । वदन्ति सूरयो वारि पवित्रमिव सर्वदा ॥३३६ गौर्वह्नि-भानवच्छाया जलमश्वं वसुन्धरा । विप्रुषो मक्षिका वायुन दुष्यन्ति कदा च न ॥३४०