SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ७८४. वृहत्पराशरस्मृतिः। [पो उदरस्थितशूद्रानो ह्यधीयानोऽपि नित्यशः। जुसन्वापि ज़पन्वापि गतिमूर्वा न विन्दति ॥३०८ अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चान्नमेवान शूद्रान्न रुधिरं स्मृतम् ।।३०६ आमं शूद्रस्य पक्कान्न पक्कमुच्छिष्टमुच्यते । तस्मादामं च पकं च शूद्रस्य परिवर्जयेत् ॥३१० तस्माच्छूद्रं न भिक्षेरन्यज्ञार्थं सद्विजातयः । श्मशानमेव यच्छूद्रस्तस्मात्तं परिवर्जयेत् ॥३११ कणानामथ वा भिक्षां कुर्याच्चेदवृत्तिकर्शितः । सच्छद्राणां गृहे कुर्वन्न तत्पापेन लिप्यते ॥३१२ विशुद्धान्वयसञ्जातो निवृत्तो मांस-मद्यतः। द्विजभक्तिर्वणिग्वत्तिस्सच्छूद्रः सम्प्रकीर्तितः ॥३१३ उदक्यास्पृट सङ्घुष्टं वाङ्कितं वाप्युदक्यया। श्वस्पृष्टं शकुनोत्सृष्टं प्रयलेन विवर्जयेत् ॥३१४ उच्छिदं च पदास्पृष्ट-शुक्लं च पतितेक्षितम् । पर्युषितं चिरस्थं च केश-कीटाधुपाहतम् ॥३१५ पक्त्युच्छिष्टं गवाघ्रातं प्रयत्नेन विवर्जयेत्। . नाभीरन्नेतदशनं शमिच्छन्तो द्विजातयः ॥३१६ शूद्राणामपि भोज्यान्नाःस्युःसीरि-नापितादयः। - सस्नेहमशनं भोज्यं चिरस्थमपि यद्भवेत् ॥३१७ अनाक्ता अपि भोज्याः स्युः सद्यःश्रितयवादयः । गर्भिण्यवत्ससूतिक्या गवादेवर्जयेत्पयः ॥३१८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy