________________
७७५
ऽध्यायः]
शौचवर्णनम्। वाङ्-मनो-जलशौचानि सदा येषां द्विजन्मनाम् ।
त्रिभिः शौचैरुपेतो यः स स्वग्र्यो नात्र संशयः ।।२१६ स्त्रियं रिरंसुविणं जिहीर्घवधं चिकीपुर्मनुजः परस्य । विवक्षुरत्यन्तमवाच्यवाचं कथं स शुद्धिं समुपैति शौचात् ? ॥२१७
किं निष्कामस्य नारीभिः किं गतासोश्च भेषजैः। जितेन्द्रियस्य किं शौचैनिष्फलं मूर्खदानवत् ।।२१८ न गतिमूर्खदानेन न तारोऽम्बुनि चाश्मनः । तस्मात्तस्य न दातव्यं सह दात्रा स मज्जति ।।२१६ यथा भस्म तथा मूल् विद्वान्प्रज्वलिताग्निवत् । होतव्यं च समिद्धेऽग्नौ जुहुयात् को नु भस्मनि ॥२२० यथा शूद्रस्तथा मूल् शूद्रश्च भस्मवत्तथा । शूद्रेण सह संवासं मूर्खे दानं विवर्जयेत् ॥२२१ ग्रहीता यो न चेद्विद्वान् तं दाता रोहिको यथा । आत्मानं तारयेत्तं च नदी वैतरणी द्विजः ।।२२२ यो मूल् विशदाचारः षट्कर्माभिरतः सदा । स नयन स्वर्गमात्मानं वृद्धांश्चैव न पीडयेत् । न विद्या न तपो यस्य ह्यादत्ते च प्रतिग्रहम् । निपातयन् स दातारमात्मानमप्यधो नयेत् ।।२२४ हेम-भूमि-तिलान् गाश्च अविद्वानाददाति यः । भस्मीभवति सोऽहाय दातुःस्यान्निस्फलं च तत् ।।२२५ तस्मादविद्वान्नादद्यादल्पशोऽपि प्रतिग्रहम् । विषतत्वापरिज्ञानी विषेणाल्पेन नश्यति ।।२२६