________________
बृहत्पराशरस्मृतिः।
[षष्ठमो. धर्म तथा शाश्वतमीशलोकम् अत्रापि विद्वज्जनपूज्यतां च ।।२०८ वेदाः सहाङ्गस्सपुराणविद्याः शास्त्राणि वेद्यानि च तद्विहीनम् । कुर्यन वै तान्यपि संस्मृतानि नरं पवित्रं प्रवदन्ति वेदाः॥२०६ येऽधीतवेदाः क्रियया विहीनाः जीवन्ति वेदैर्मनुजाधमास्तान् । वेदास्त्यजेयुनिधनस्य काले नीडं शकुन्ता इव जातपक्षाः ।।२१० आचारहीननरदेहगताश्च वेदाः शोचन्ति किं नु कृतवन्त इतिस्म चित्ते । यन्नोऽभवद्वपुषि चास्य शुभप्रहीणे
स्थानं तदत्र भगवान् विधिरेव शोच्यः ॥२११ कर्तव्यं यत्नतः शौचं शौचमूला द्विजातयः। शौचाचारविहीनानां सर्वाः स्युनिष्फलाः क्रिया ॥२१२ तत्सद्विविविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । विमत्रशोधनं बाह्यं चित्तशुद्धिस्तथाऽऽन्तरम् ।।२१३ मृद्भिरद्भिरनालस्यं तत्कर्तव्यं द्विजातिभिः । भावशुद्धिः परं शौचमाहुराभ्यन्तरं बुधाः ।।२१४ गन्धलेपापहं बायं शौचमाहुर्मनीषिणः । यस्य पुंसस्तु तच्छाचं शौचस्तस्य किमन्यकैः ।।२१५