________________
वृहत्पराशरस्मृतिः। [षष्ठोप्राणोऽनमस्मिन् शरणं हि वासो रूप्यं हिरण्यं पशवो विवाहाः। सखा च यज्वा कृपणश्च पुत्री ज्योतिः परं पुत्र इहाप्यमुत्र ।।१८७
स पुण्यकृत्तमो लोके यस्य पुत्राश्चिरायुषः । विशेषेण हि धर्मज्ञाः स परं ब्रह्म विन्दति ॥१८८ पुत्रेण प्राप्यते स्वर्गो जातमात्रेण तु ध्रुवम् । तस्मादिच्छन्ति सर्वे हि पशवोऽपि वयांसि च ।।१८६ जायायारतद्धि जायात्वं यदस्यां जायते पुनः । पुत्रस्यापि च पुत्रत्वं यत्राति नरकार्णवात् ॥१६० यः पिता स तु पुत्रः स्यात् जायैव हि जनन्यपि । न पृथक्त्वं विदुस्तज्ज्ञाश्चयोश्चाऽपरयोरपि ।।१६१ अयं हि पन्थाः पुरुषस्य तस्य ध्रुवं भवेत्पुत्रजन्मेह यस्य । तद्वीक्ष्य चोवं पशवो वयांसि पुत्रार्थिनो मातरमारहन्ति ।।१९३
जनिष्यमाणानिच्छन्ति पितरः स्वकुले सुतान् । कश्चित्वा गयायां नोऽवश्यं पिण्डान प्रदास्यति ॥१६३ यक्ष्यत्यत्योऽश्वमेधेन नीलं मोक्ष्यति गोवृषम् । एटव्यं पितृभिः सर्व पुत्रभ्यः सकलं फलम् ॥१६४ शुद्धः शौर्येकचित्तो वा प्राणान्मोक्ष्यति संयुगे। दानदो वा कुरुक्षेत्रे ज्ञानी वाथ भविष्यति ।।१६५ जीवतो वाक्यकरणात् क्षयाहे भूरि भोजनात् । गयायां पिण्डदानाञ्च त्रिभिः पुत्रस्य पुत्रता ॥१६६ पुच्छे शिरसि यः शुक्लः शुक्लायाल्लोहितं वपुः । देवाघभीष्टो नीलोऽयमुत्सृष्टः पावनो वृषः ॥१६७