SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अन्यायः ] ब्रह्मचर्यवर्णनम् । ७६६ कार्ण च रौरवं बास्तमजिनानि द्विजन्मनाम् । शिरो-ललाट-नासान्ताः क्रमाद्दण्डाः प्रकीर्तिताः ॥१५४ अबणाः सत्वयो ऽदग्धा उक्ताः शुभकरा नृणाम् । गायच्या त्रिष्टुप्-जगत्या त्रयाणामुपनायनम् ॥१५५ गायत्र्यामविशेषो बा मुजादिष्यपरेषु च । तत्सवितुस्ता सबितुविश्वा रूपाणि वा क्रमात् ॥१५६ औपनायनिका मन्त्रा विप्रादीनामुदाहृताः। ब्राह्मणो विप्रगेहेषु नृपस्तेषूत्तमेषु च ॥१५७ वैश्यो विप्र-नृपेष्वेषु कुर्याद्भिक्षा स्ववृत्तये । एकाग्नं न द्विजोश्नीयाद्ब्रह्मचारिखते स्थितः ॥१५८ भिक्षाव्रतं द्विजातीनामुपवाससमं स्मृतम् । प्रतिग्रहो न भिक्षा स्यान्न तस्याःपरपाकता ।१५६ सोमपानसमा भिक्षा अतोश्नीत स भिक्षया । भिक्षया यस्तु भुञ्जीत निराहारः स उच्यते ॥१६० भिक्षामनभिशस्तेषु स्याचारेषु द्विजेषु च । भिक्षेत नित्यं क्रमशो गुरोः कुलं विवर्जयेत्॥१६१ स्वसारं मातरं चापि मातृष्वसारमेव च । भिक्षेत प्रथमां भिक्षा या चान्या न विमानयेत् ॥१६२ 'भवति भिक्षा मे देहि' 'भिक्षा भवति देहि मे। 'भिक्षा मे देहि भवति' क्रमेणैवमुदाहरेत् ॥१६३ द्वादशाब्दं व्रतं धायें षट्यब्दं तु श्रुतिम्प्रति । आदित्याब्दे त्यजेत्तद्वै दत्त्वा तु गुरुवे बरम् ॥१६४ ४६ .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy