SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। मध्यमा-नामिकास्त्वन्यादाने जुहुयाद्बुधः । समाने सर्वैरुद्धृय आहुतिः स्यात्समानतः ॥१२१ जलं पीत्वा तु तृप्यन्ति रेचयेच्च शनैः शनैः। ततोऽन्यद्धव्यमश्नीयात्पुरणायोदरस्य च ॥१२२ विधि प्राणाग्निहोत्रस्य ये द्विजा नैव जानते। अपानेन तु भुञ्जन्ति तेषां मुखमपानवत् ॥१२३ यो ज्ञात्वा तु विधिं भुङ्क्ते यथोक्तमिदमाचरेत् । इहामुत्र च पूज्यत्वं ब्रह्मभूयाय कल्पते ॥१२४ त्रिःसप्तकुलमुद्धृत्य दातुरप्यक्षयं भवेत् । दातुरपि हि यत्पुण्यं भोक्तुश्चैव हि तत्फलम् ।।१२५ दाता चैव तु भोक्ता च तावुभौ स्वर्गगामिनौ । यो जानाति विधि चेमं सभवेद्ब्रह्मवित्तमः ।।१२६ एक पिवति गण्डूषं त्यजेदधं धरातले । स हतः पितृ-दैवत्यमात्मानं नरकं व्रजेत् ॥१२७ रहस्यं सर्वशास्त्रेषु सर्वशास्त्रेषु दुर्लभम् । ज्ञानानामुत्तमं ज्ञानं न कस्यचित् प्रकाशयेत् ॥१२८ विप्राणामग्निहोत्रस्य ये द्विजा नैव जानते । ज्ञानानि योऽप्रकास्यानि पुंसामविदुषां वदेत् ।।१२६ स प्रणाश्य फलं तेषामात्मानं नरकं नयेत् । योऽज्ञात्वा ह्यप्रकाश्यानि पुंसामविदुषां वदेत् ।।१३० प्राणायामफलं हत्वा आत्मानं नरकं नयेत् । योऽश्नीयाद्विधिवद्विप्रः कृतपात्रपरिग्रहः ॥१३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy