SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ S ] बेदविद्विभस्यकलाशस्यवर्णनम् । ____५६५ हृदये दक्षिणाग्निश्च गृह्णाग्निश्वापि दक्षिणे। सभ्यश्चोत्तरतश्चिन्त्य इत्यग्निस्मरणक्रमः ॥११० प्राणाद्येवाग्निहोत्रादि चिन्तयेत्तद्वदेव तु । होतारं प्राणमित्याहुरुद्गातारमपानकम् ।।१११ ब्रह्माणं व्यानमित्येके उदानोऽध्वर्युमित्यपि । समानं चेह यज्वानमिति ऋत्विक्क्रमं बुधः ।।११२ अहङ्कारं पशुकृत्वा प्रणवं यूपमित्यपि । बुद्धिरित्यरणिः पृथ्वी लोमानि च कुशाः स्मृताः ११३ मनो विभक्ता त्वग्जिहा इति तज्ज्ञाः प्रचक्षते । कृत्वा त्रिमात्रमोङ्कारं हुकारं च तथा पुनः ॥११४ उत्तिष्ठ जननाथाऽग्ने हरिलोहितपिङ्गल । सप्तपरिधये तुभ्यं क्षुद्वहिदैवतं च यत् ॥११५ विजिह्व जाठरायाऽग्ने स्वाहाप्राणाय व्यत्ययः । इन्द्रगोपकवाय त्रिजिह्वायाग्निदेवतम् ।।११६ ॐ स्वाहेति अपानाय स्वाहाकारान्तमुधरेत् । गोक्षीरसमवर्णाय पर्जन्यं वह्निदेवतम् । ११७ स्वाहोदानाय सोङ्कारमनलाय पराचिपे। ताडित्समानवर्णाय वाय्वग्निदेवताय ते ॥११८ ॐ स्वाहा च समानाय ॐ स्वाहा चाह वेधसे । तर्जनी-मध्यमा-ङ्गुष्ठलग्ना प्राणस्य चाहुतिः ॥११६ कनिष्ठा-ऽनामिका-ऽङ्गुष्ठानस्य परिकीर्तिता । मध्यमा-ऽनामिका-गुष्ठरपानायाहुतिः स्मृता ॥१२०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy