________________
बृहत्पराशरस्मृतिः। सुषुम्ना चेश्वरी नाडी त्रिधा प्राणवहाः स्मृताः। उत्तरं दक्षिणं ज्ञेयं दक्षिणोत्तरसंज्ञितम् ॥६8 मध्ये तु विषुवं शेयं पुटद्वयविनिःसृतम् । संक्रांति-विषुवे चैव यो विजानाति विग्रहे ॥१०० . नित्यमुक्तः स योगी च ब्रह्मबादिभिरुच्यते । मध्याह्न चार्धरात्रे च प्रभातेऽस्तमये तथा ॥१०१ : विषुवन्तं विजानीयात्पुटद्वयविनिःसृतम् । हृत्पुण्डरीकमरणीं मनो मन्थानमेव च ॥१०२ प्राणरज्या न्यसेदग्निमात्माध्वर्युः प्रतिष्ठितः । ज्वालयेत्पूरकेणाऽग्नि स्थापयेत्कुम्भकेन तु ॥१०३ रेचकेणोर्ध्ववक्त्रेण ततो होमं करोति यः । यत्तद्धृदि स्थितं पद्ममधोनालं व्यवस्थितम् ॥१०४ तस्मिन्विकसिते पद्म प्राणो वायुर्विसर्पति । वामहस्तधृते पात्रे दक्षिणे चाम्भसि स्थिते ॥१०५ सनादमुच्चरेद्विप्रो अच्छिन्नाग्रं तु पूरयेत् । पूरणात् पूरकं प्राहुनिश्चलं कुम्भकं भवेत् ॥१०६ निर्गच्छति शनैर्वायू रेचकं तं विनिर्दिशेत् । स्वाहान्तः प्रणवाद्यैश्च स्वस्वनाम्ना च वायुभिः ॥१०७ जीवात्मा योजितः षष्ठः षडाहुत्या हुतं भवेत् । जिह्वादत्तं ग्रसेदन्नं दन्तैश्चैव न तत् स्पृशेत् ॥१०८ दशनैः स्पृष्टमात्रेण पुनराचमनं चरेत् । मुख आहवनीयोऽग्निर्हपत्यस्तथोदरे ।।१०६