SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वेदविद्विप्रस्वकलाज्ञस्यवर्णनम् । वक्ष्यमाणो विधिः पुण्यः प्रेत्य चेह च पावनः । यो बिधिदेवताभ्यस्तः संसारबन्धनाशकृत् ।।८८ तद्विदस्तु दिवं यान्ति मुक्ता दैवाहणादपि । उद्धरेद्यद्विदित्वाश्नन्पुरुषानेकविंशतिम् ।।८६ सर्वेष्टिफलभाग्यायाद्वैधसं क्षयमक्षयम् । यः कालाकालबिद्विप्रो नैनःस्पर्शी स कर्हिचित् ।।६० सोऽस्पृष्टैना विशेत्तत्र यद्गत्वा नैति संमृतौ । दश पञ्चांगुलव्यासं नासिकाया बहिः स्थितम् ।।६१ जीवो यत्र विशुद्धयेत सा कला षोडशी स्मृता । सर्वमेतत्तया व्याप्त त्रैलोक्यं सचराचरम् ।।६२ ब्रह्मविद्येति विख्याता वेदान्ते च प्रतिष्ठिता। न वेदं वेदमित्याहुबैद्यन्नाम परं पदम् ॥६३ तत्पदं विदितं येन स विप्रो वेदपारगः । आहुतिः सा परा ज्ञेया सा च शान्तिः प्रकीर्तिता ॥६४ गायत्री सा च विज्ञेया सा च सन्ध्या प्रकीर्तिता। तज्जाप्यं तच्च वै ज्ञेयं तद्वतं तदुपासितम् ॥६५ तां कलां यो विजानाति स कलाज्ञो द्विजः स्मृतः । तत्तुरीयपदं शान्तं यस्मिल्लीनमिदं जगत् ।।६६ तज्ज्ञात्वा परमं तत्वं न भूयः पुरुषो भवेत् । प्राणमार्गास्नयः प्रोक्तास्तिस्रो नाड्यः प्रकीर्तिताः ।।६७ ईडा च पिङ्गला चैव सुषुम्ना च तृतीयका । ईडा च वैष्णवी नाडी ब्रह्माणी पिङ्गला स्मृता ॥६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy