________________
ऽध्यायः] हलधर्मवर्णनम्। ७६१
न दिवापि लियं गच्छेदिच्छंस्तदिच्छयापि च । न पर्वसु न सन्ध्यासु नाऽऽद्यत्तुंचतुरात्रिषु ॥६६ वन्ध्याष्टमे ऽधिवेत्तव्या नवमे च मृतप्रजा। एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥६७ नोदक्यां न दिवा गच्छेत् सगभों च ब्रतस्थिताम् । अधिगच्छेदविद्वान्यस्तदायुः क्षयमेति च ॥६८ न वक्त्रेऽभिगमं कुर्यान पाणिग्राही स्वयोषितः । कुर्याच्चेत्पितरस्तस्य पतन्ति नरकेऽशुचौ ॥६६ भार्याधीनं सुखं पुंसां भार्याधीनं गृहं धनम् । भार्याधीना सुखोत्पत्तिर्भार्याधीनः शुभोदयः॥७० यत्र भार्या गृहं तत्र भार्याहीनं गृहं वनम् । न गृहेण गृहस्थः स्याद्भार्यया कथ्यते गृही ॥७१ गृही स्याद्गृहधर्मेण स वै पञ्चमखादिकः । तद्धीनो न गृहस्थास्यात्कुर्यात्तं यत्नतस्ततः ।।७२ पञ्चयज्ञविधानेन कुर्यात्पञ्च महामखान् । श्रोते वा यदि वा स्मार्ते पञ्चयज्ञान हापयेत् ।।७३ कुर्युः पञ्चमहायज्ञान सूनादोषापनुत्तये । पश्चसूना भवन्त्यत्र सर्वेषां गृहमेधिनाम् ॥७४ कण्डन्युदककुम्भी च चुली पेषण्युपस्करः । यदाऽऽदौ वेदमारभ्य स्नात्वा भक्त्या द्विजोत्तमः ।।७५ अध्यापयेद्विजांच्छिष्यान्स वै ब्रह्ममखः स्मृतः । यत् सात्वाऽहरहः सर्वान्देवांश्च मनुजान्पिवृन् ।।७६