________________
वृहत्पराशरस्मृतिः। [पञ्चमोत्रयस्त्रिंशंच विप्राणां कृषिकर्मा न लिप्यते ॥ कृष्या यथोत्पाद्य यवादिकानि धान्यानि भूयांसि मखान्विधाय । मुक्तो गृहस्थोऽपि पराशरः प्राक्. तस्या मया कश्चिदवादि शेषः ॥१६१ देवा मनुष्याः पितरश्च सर्व साध्याश्च यक्षाश्च सकिन्नराश्च । गावो द्विजेन्द्राः सह सर्वसत्वैः कृष्यन्नतृप्तानि मनाक् करोति ॥१९२ यश्चैतहालोच्य कृषि विदध्यात् लिप्येन्न पापेन स भूभवन ।। सीरेण तस्यातिविदारितापि स्याद्भूतधात्री वनदानदात्री ॥१६३ पट्कर्माणि कृषि ये तु कुर्युर्ज्ञात्वा विधि द्विजाः । तेऽमरादिवरप्राप्ताः स्वर्गलोकमवाप्नुयुः ॥१६४ पट्कर्मभिः कृषिः प्रोक्ता द्विजानां गृहमेधिनाम् ।
गृहं च गृहणीमाहुस्तद्विवाहो मयोच्यते ॥१६५ इति श्रीवृहत्पराशरीये धर्मशास्त्रे सुव्रतप्रोक्तायां स्मृत्यां कृषिकर्मसीतायज्ञोपधर्मो नाम पञ्चमोऽध्यायः॥
-**