________________
७५२
बृहत्पराशरस्मृतिः। [पचमोसेकद्वारं पिधानं च विदध्याश्चैव सर्वतः। खरोष्ट्राजोरणांस्तत्र विशतस्तु निवारयेत् ॥१६६ श्व-शूकर-शृगालादिकाकोलूक-कपोतकान् । त्रिसन्ध्यं प्रोक्षणं कुर्यादानीताभ्युक्षणाम्बुभिः ॥१७० रक्षां च भस्मना कुर्याजलधाराभिरक्षणम । त्रिसन्ध्यमर्चयेत्सीतां पाराशरमृषि स्मरन् ॥१७१ प्रेत-भूतादिनामानि न वदेश्च तदग्रतः । सूतिकागृहवत्तत्र कर्तव्यं परिरक्षणम् ॥१७२ हरन्त्यरक्षितं यस्माद्रक्षांसिं सर्वमेव हि । प्रशस्तदिनपूर्वाहे नाऽपराह्ने न सन्ध्ययोः ॥१७३ धान्योन्मानं सदा कुर्यात् सीतापूजनपूर्वकम् । यजेत खलभिक्षाभिः काले रोहिण एव हि ॥१७४ भच्या सर्व प्रदत्तं हि तत्समस्तमिहाक्षयम् । खलयो दक्षिणैषा ब्रह्मणा निर्मिता पुरा ॥१७५ भागधेयमयी कृत्वा तां गृहन्त्वीह मामिकाम् । शतक्रत्वादयो देवाः पितरः सोमपादयः ॥१७६ सनकादिमनुष्याश्च ये चान्ये दक्षिणाशनाः । एतानुद्दिश्य विप्रेभ्यो प्रदद्यात् प्रथमं हली ॥१७७ बिवाहे खलयशे च सक्रान्तौ ग्रहणेषु च । पुो जाते व्यतीपाते दत्वं भवति चाक्षयम् ॥१७८ अन्येषामर्थिनां पश्चात्कारुकाणां ततः परम् । दीनानामप्यनाथानां कृष्टिनां कुश्शरीरिणाम् ॥१७६