________________
ऽध्यायः] कृषिकृच्छुद्धि करणवर्णनम् । ७५१
नृपस्य कोशवृद्धयर्थं जायते कृषिकन्नरः ।। कुर्यात्कृषि प्रयत्नेन सर्वसत्वोपजीविनीम ॥१५८ पितृ-देव-मनुष्याणां पुष्टये स्यात् कृषीवलः । वयांसि चान्यसत्वानि क्षुत्तृष्णापीडिताः प्रजाः ॥१५६ उपयुञ्जन्ति सस्यानि क्षेत्रजातानि नित्यशः । पुष्ट्यर्थ मुष्टिमेकां वा ददत्पापं व्यपोहति ।।१६० यस्य क्षेत्रस्य यावन्ति सस्यान्यदन्ति प्राणिनः । तावन्तोऽपि विमुच्यन्ते पातकात् कृषिकारकाः ॥१६१ कृताग्निकार्यदेहोऽपि ब्राह्मणोऽन्यतमोऽपि वा। आददानः परक्षेत्रात् पथि गच्छन्न लिप्यते ॥१६२ क्षेत्री विमुच्यते दोषात् नियतं कृषिसम्भवात् । गृहीतं क्षेत्रिणो धान्यं निवेदयति वाण्वपि ॥१६३ अनिवेदिते तदधं स्यात् पातकं कधूकस्य च। भावशुद्धावतो धर्मो ह्यनेन तद्विशोधयेत् ॥१६४ मुष्टिं तु कल्पयन्धान्यं सर्वपापं व्यपोहति । यत्किञ्चिदथिने दद्याद्भिक्षामात्रं च भिक्षवे ।।१६५ अन्नं सुसंस्कृतं वापि तेन सीरो विशुद्धयति । सीतायज्ञं च यः कुर्यात् सिद्धसस्ये खलागते ॥१६६ अनन्तकृतपापोऽपि मुक्तो भवति कर्षुकः । खलय प्रवक्ष्यामि तत्कुर्वाणा द्विजातयः ॥१६७ विमुक्ताः सर्वपापेभ्यः स्वर्गीकस्त्वमवाप्नुयुः । चतुर्दिा खले कुर्यात्प्राच्यमतिघनावृतिम् ॥१६८