________________
वृहत्पराशरस्मृतिः। [पञ्चमोद्वादशो नवमो वापि सप्तमः पञ्चमोऽपि वा। धान्यभागः प्रदातव्यो सीरिणा खलके ध्र वम् ॥१४७ अश्मर्यव्यूढभूमौ च विंशांशी क्षेत्रमुग्भवेत् । एकैकांशाय कर्षः स्याद्यावदशम-सप्तमौ ॥१४८ ग्रामेशस्य नृपस्यापि वर्णिभिः कृषिजीविभिः॥१४६ सस्यभागः प्रदातव्यो यतस्तौ कृषिभागिनौ । ब्राह्मणस्तु कृषि कुर्वन्वाहयेदिच्छया धराम् ॥१५० न किश्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभुर्यतः। ब्रह्मा वै ब्राह्मगं चास्यात्प्रभुस्त्वसृजदादितः ॥१५१ तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि । पशुपाल्याशनोत्पत्त्यै ऊरुभ्यां च तथा विशः ॥१५२ द्विजदास्याय पण्याय पद्धयां शूद्रमकल्पयत् । यकिञ्चिजगतीहात्र भू-गेहाश्च गजादिकम् ॥१५३ स्वभावेन हि विप्राणां ब्रह्मा स्वयमकल्पयत् । ब्राह्मणश्चैव राजा च द्वावप्येतो धृतव्रतौ ॥१५४ न तयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणे । तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् ॥१५५ ग्रामेशस्य नृपस्यापि कियन्तमप्यसौ बलिम् । अथान्यत् सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् ॥१५६ संशुद्धः कर्षको येन स्वर्गलोकमवाप्नुयात् । सर्वसत्वोपकाराय सर्वयज्ञोपसिद्धये ॥१५७