________________
कृषिमहत्वधर्मबर्णनम् ।
गोधूमाश्च मसूराश्च खल्याः खलकुशास्तथा । समस्निग्धेषु वाप्याश्च भूमिजीवान्विजानता ॥ १३७ तिला बहुविधाश्चोप्या अतसी शणमेव च । समस्निग्धेषु वाप्यानि धान्यान्यन्यानि योगतः ॥ १३८ कुलत्था मुद्द्रमाषाश्च राजमाषादिकास्तथा । वाया भूमिविशेषे तु भूमिजीवं विजानता ॥१३६ मृदम्बुयोगजं सर्वं वापयेत्कृषिकृन्नरः । सम्पश्येश्चरतः सर्वान् गोवृषादीन् स्वयं गृही ॥१४०
ऽध्यायः ]
चिन्तयेत्सर्वमात्मीयं स्वयमेव कृषि व्रजेत् । प्रथमं कृषिवाणिज्यं द्वितीयं पशुपोषणम् ॥ १४१ तृतीयं क्रीतविक्रीतं चतुर्थं राजसेवनम् । नखैर्विलिखने यस्याः पापमाहुर्मनीषिणः ॥१४२ तस्था: सीरविदारेण किं न पापं क्षिवेर्भवेत् । तृणैकच्छेदमात्रेण प्रोच्यते क्षय आयुषः || १४३ असङ्ख्यकन्दनिर्नायादसङ्ख्यातं भवेदधम् । यद्वर्षे मत्स्यबन्धानां तथा सङ्करिणामपि ॥ १४४ अंहः कुक्कुटिकानां च तद्दिने कृषिकारिणाम् । वधकानां च यत् पापं यत् पापं मृगयोरपि । कदर्याणां च यत् पापं तद्दिने कृषिकारिणाम् ॥१४५ वर्णानां च गृहस्थानां कृषिवृत्त्युपजीविनाम् । तदेनसो विशुद्धयर्थं प्राह सत्यवतीपतिः || १४६
७४६