SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ७४८ वृहत्पराशरस्मृतिः। [पञ्चमोनरकं घोरतामिस्रं पापीयान् याति निश्चितम् । योऽपहृत्य परकीयां कृषिकद्वाहयेद्धराम् ।।१२६ स भूमिस्तेयपापेन सुचिरं नरके बसेत् । एकसयमपि स्वर्ण भूमिमङ्गुलमात्रिकाम् ।।१२७ तथैकामपि गां हृत्वा सृष्ट्यन्तं नरकं वसेत् । न दूरे वाहयेत् क्षेत्र न चैवात्यन्तिके तथा ॥१२८ वाहयेन्न पथि क्षेत्रां वाहयन्दुःखभाग्भवेत् । क्षेोष्वेवं वृतिं कुर्याद्यामुष्ट्रो नावलोकयेत् ॥१२६ न लययेत्पशु श्वो नभिन्द्याद्यां च शूकरः । वन्धाश्च यत्नतः कार्या मृगादित्रासनाय च ॥१३० अत्राप्युपद्रवं राज्ञा तस्करादिसमुद्भवम् । संरक्षेत्सर्वतो यत्नाद्यस्मात् गृह्णात्यसौ करान् ॥१३१ कृषिकृमानवस्त्वेवं मत्वा धर्म कृषेद्धराम् । अनवद्यां शुभां स्निग्धां जलवगाहनक्षमाम् ।।१३२ निम्नां हि बाहयेद्भूमिं यत्र विश्रमते जलम् । वाहयेत्तु जलाभ्यर्णमवृष्टौ सेकसम्भवः ।।१३३ शारणभुचकै मौ कङ्ग्वाद्य वापयेद्धली । अधित्यकासु कार्पासं वदन्त्यन्यत्र हैमकम् ॥१३४ वासन्तं ग्रीष्मकालीयं वाप्यं स्निग्धेषु तद्विदा । केदारेषु तथा शालीञ्जलोपान्तेषु चेक्षवः ॥१३५ वृन्ताक-शाकमूलानि कन्दानि च जलान्तिके। वृष्टिविश्रान्तपानीयक्षेशेषु च यवादिकान् ॥१३६ .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy