________________
७४५
ऽध्यायः] कृयाद्यनेकसवृषभवर्णनम् ।
शालीक्षु-शण-कार्पास-वार्ताकप्रभृतीनि च । वापयेत् सस्यबीजानि सर्व वापि न सीदति ।।६३ चन्द्रक्षये ऽमतिविप्रो यो युनक्ति वृषं कचित। तं पञ्चदशवर्षाणि त्यजन्ति पितरो हितम् ।।१४ चन्द्रक्षये तु योऽविद्वान् द्विजो भुक्ते पराशनम् । भोक्तुर्मासार्जितं पुण्यं भवेदशनदस्य वै ॥६५ चन्द्रार्कयोस्तु संयोगे कुर्याद्यः स्त्रीनिषेवणम् । स्यूरेतोभोजनास्तस्य तन्मासं पितरो हताः ।।६६ चन्द्रक्षये तु यः कुर्यात्तरुस्तम्भनिकृन्तनम् । तत्पर्णसंख्यया तस्य भवन्ति भ्रूणहत्यकाः ।।६७ वनस्पतिगते सोमे योऽध्वानं तु व्रजेद्विजः । प्रभ्रष्टद्विजकर्माणं तं त्यजन्त्यमरादयः ।।६८ वासांसीन्दुप्रणाशे यो रजकस्याग्रतः क्षिपेत् । पिबन्ति पितरस्तस्य मासं वस्त्रमलाम्बु तत् ॥६६ सोमक्षये द्विजो याति त्यक्त्वा यस्तु हुताशनम् । स देव-पितृशापाग्निदग्धो नरकमाविरोत् ।।१०० अष्टमी कामभोगेन षष्ठी तैलोपभोगतः ।
कुहूश्च दन्तकाष्ठेन हिनस्त्यासप्तमं कुलम् ॥१०१ । चन्द्राप्रतीतौ पुरुषस्तु दैवादद्यादमत्या यदि दन्तकाष्ठम् । ताराधिराजः स्वदितस्तु तेन घातः कृतः स्यात्पितृ-देवतानाम् ॥१०२
तत्राभ्यज्य विषाणानि गावश्चैव तथा वृषाः । चरणाय विसृज्यन्ते आगतान निशि भोजयेत् ॥१०३